ग॒न्ध॒र्वस्त्वा॑ वि॒श्वाव॑सुः॒ परि॑दधातु॒ विश्व॒स्यारि॑ष्टयै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒ड ई॑डि॒तः । इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णो॒ विश्व॒स्यारि॑ष्ट॒यै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒ड ई॑डि॒तः। मि॒त्रावरु॑णौ त्वोत्तर॒तः परि॑धत्तां ध्रु॒वेण॒ धर्म॑णा विश्व॒स्यारि॑ष्ट॒यै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒ड ई॑डि॒तः
gandharvás tvā̄ viśvā́vasuḥ pári dadhātu viśvásyā́riṣṭaye yájamānasya paridhír asy agnír iḍá ī́ḍitaḥ | índrasya bāhúr asi dákṣiṇo viśvásyā́riṣṭaye yájamānasya paridhír asy agnír iḍá ī́ḍitaḥ | mitrā́varuṇau tvóttarátaḥ pári dadhattāṃ dhruvéṇa dhármaṇā viśvásyā́riṣṭaye yájamānasya paridhír asy agnír iḍá ī́ḍitaḥ
May the Gandharva Viśvāvasu encompass thee, for the unimpaired safety of the whole, (thee) who art the sacrificer’s enclosing-fence: Agni is ‘Id,’ worthy of praise. Thou art Indra’s arm, the right one, for the unimpaired safety of the whole; thou art the sacrificer’s enclosing-fence: Agni is ‘Id,’ worthy of praise. May Mitra and Varuṇa encompass thee on the north, by steadfast ordinance, for the unimpaired safety of the whole; thou art the sacrificer’s enclosing-fence: Agni is ‘Id,’ worthy of praise.
गन्धर्वः । त्वा । विश्वावसुः । परि-दधातु । विश्वस्य । अरिष्टयै । यजमानस्य । परिधिः । असि । अग्निः । इट् । ईडितः ।
इन्द्रस्य । बाहुः । असि । दक्षिणः । विश्वस्य । अरिष्टयै । यजमानस्य । परिधिः । असि । अग्निः । इट् । ईडितः ।
मित्रा-वरुणौ । त्वा । उत्तरतः । परि-दधत्ताम् । ध्रुवेण । धर्मणा । विश्वस्य । अरिष्टयै । यजमानस्य । परिधिः । असि । अग्निः । इट् । ईडितः ।