तद॒श्विना॑ भि॒षजा॑ रु॒द्रव॑र्तनी॒ सर॑स्वती वयति॒ पेशो॒ अन्त॑रम् । अस्थि॑ म॒ज्जानं॒ मास॑रैः कारोत॒रेण॒ दध॑तो॒ गवां॑ त्व॒चि
tád aśvínā bhiṣájā rudrávartnī sárasvatī vayati péśo ántaram | ásthi majjā́naṃ mā́saraiḥ kārotaréṇa dádhato gávāṃ tváci
That (form) the two Aśvins, the physicians moving in Rudra’s track, and Sarasvatī weave—the inner fashioned form. Bone and marrow they set with fibres, with the workman’s tool, within the cows’ hide.
तत् । अ॒श्विना॑ । भि॒षजा॑ । रु॒द्र-व॑र्तनी । सर॑स्वती । व॒य॒ति॒ । पेशः॑ । अन्त॑रम् । अस्थि॑ । म॒ज्जान॑म् । मास॑रैः । का॒रो॒त॒रेण॑ । दध॑तः । गवाम् । त्व॒चि