त्वᳪ सो॑म॒ प्र चि॑कितो मनी॒षा त्वᳪ रजि॑ष्ठ॒मनु॑ नेषि॒ पन्था॑म् । तव॒ प्रणी॑ती पि॒तरो॑ न इन्दो दे॒वेषु॒ रत्न॑मभजन्त॒ धीरा॑:
tváṃ soma prá cikito manīṣā́ tváṃ rajíṣṭham ánu neṣi pánthām | táva práṇītī pitáro na indo devéṣu rátnam abhajanta dhī́rāḥ
Thou, O Soma, discernest with inspired thought; thou leadest along the straightest path. Under thy guidance, O Indu, our Fathers—the wise—won for themselves the treasure among the Gods.
त्वम् । सोम । प्र । चिकितः । मनीषा । त्वम् । रजिष्ठम् । अनु । नेषि । पन्थाम् । तव । प्र-नीती । पितरः । नः । इन्दो । देवेषु । रत्नम् । अभजन्त । धीराः