परी॒तो षि॑ञ्च॒ता सु॒तᳪ सोमो॒ य उ॑त्त॒मᳪ ह॒विः । द॒ध॒न्वा यो नर्यो॑ अ॒प्स्वन्तरा सु॒षाव॒ सोम॒मद्रि॑भिः
parī̱to siñcatā sutáṃ sómo yá uttamáṃ havíḥ | dádhanvā yó naryò a̱psv ántarā su̱ṣā́va sómam ádribhiḥ
Pour ye it round about—the pressed Soma, which is the highest oblation; he who, bestowing (strength), the manly one, within the waters, hath pressed the Soma with the stones.
प॒रि॒-इ॒तः । सि॒ञ्च॒त॒ । सु॒तम् । सोमः॑ । यः । उ॒त्त॒मम् । ह॒विः । द॒ध॒न्वा । यः । नर्यः॑ । अ॒प्सु । अ॒न्तरा॑ । सु॒षाव॑ । सोम॑म् । अद्रि॑भिः