तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भि॑: । अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शᳪस॒ मा न॒ आयु॒: प्र मो॑षीः
tát tvā yāmi bráhmaṇā vándamānas tád ā́ śāste yájamāno havírbhiḥ | áheḍamāno varuṇeha bodhy úruśaṃsa mā́ na ā́yuḥ prá moṣīḥ
To that end I go to thee, with sacred speech doing reverence; thereto the sacrificer directs (thee) with oblations. Unoffending, O Varuṇa, be thou here aware; O widely-praised one, take not away our life.
तत् । त्वा । यामि । ब्रह्मणा । वन्दमानः । तत् । आ । शास्ते । यजमानः । हविर्भिः ।
अहेडमानः । वरुण । इह । बोधि । उरुशंस । मा । नः । आयुः । प्र । मोषीः ।