सं मा॑ सृजामि॒ पय॑सा पृथि॒व्याः सं मा॑ सृजाम्य॒द्भिरोष॑धीभिः । सो॒ऽहं वाज॑ᳪ सनेयमग्ने
saṃ mā sr̥jāmi páyasā pr̥thivyā́ḥ saṃ mā sr̥jāmy adbhi r óṣadhībhiḥ | só ’háṃ vā́jaṃ saneyam agne ||
With the earth’s milk I knit myself together; with waters, with plants I knit myself together. Thus may I, O Agni, win the Vāja.
सम् । मा । सृजामि । पयसा । पृथिव्याः । सम् । मा । सृजामि । अद्भिः । ओषधीभिः । सः । अहम् । वाजम् । सनेयम् । अग्ने ।