प्रा॒णश्च॑ मेऽपा॒नश्च॑ मे व्या॒नश्च॒ मेऽसु॑श्च मे चि॒त्तं च॑ म॒ आधी॑तं च मे॒ वाक् च॑ मे॒ मन॑श्च मे॒ चक्षु॑श्च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श्च मे॒ बलं॑ च मे य॒ज्ञेन॑ कल्पन्ताम्
prā́ṇaś ca me 'pānáś ca me vyā́naś ca me 'súś ca me cittáṃ ca ma ādhī́taṃ ca me vā́k ca me mánaś ca me cákṣuś ca me śrótraṃ ca me dákṣaś ca me bálaṃ ca me yajñéna kalpantām ||
May breath be mine, and downward breath be mine, and pervading breath be mine, and life be mine; mine be mind and what is studied; mine be speech and thought; mine be eye and ear; mine be skill and strength—may all these be duly adjusted for me by sacrifice.
प्राणः । च । मे । अपानः । च । मे । व्यानः । च । मे । असुः । च । मे । चित्तम् । च । मे । आधीतम् । च । मे । वाक् । च । मे । मनः । च । मे । चक्षुः । च । मे । श्रोत्रम् । च । मे । दक्षः । च । मे । बलम् । च । मे । यज्ञेन । कल्पन्ताम् ।