तन्तु॑ना रा॒यस्पोषे॑ण रा॒यस्पोषं॑ जिन्व सᳪस॒र्पे॑ण श्रु॒ताय॑ श्रु॒तं जि॑न्वै॒डेनौ॑षधीभि॒रोष॑धीर्जिन्वोत्त॒मेन॑ त॒नूभि॑स्त॒नूर्जि॑न्व व॑यो॒धसाधी॑ते॒नाधी॑तं जिन्वाभि॒जिता॒ तेज॑सा॒ तेजो॑ जिन्व
tántunā rāyáspóṣeṇa rāyáspóṣaṁ jinva saṁsárpeṇa śrutā́ya śrutáṁ jinva | eḍénauṣadhī́bhir óṣadhīḥ jinva uttaména tanū́bhis tanū́r jinva | vayódhasādhīténādhītáṁ jinva abhijítā téjasā téjó jinva
With the thread, for increase of wealth, quicken thou increase of wealth; with onward creeping, for sacred hearing, quicken thou sacred hearing. With refreshment, with plants, quicken thou the plants; with the highest, with bodies, quicken thou the body. With life-giving power, with what is learnt, quicken thou what is learnt; with victorious splendour, with energy, quicken thou energy.
तन्तुना । रायस्-पोषेण । रायस्-पोषम् । जिन्व । संसर्पेण । श्रुताय । श्रुतम् । जिन्व । एडेना । ओषधीभिः । ओषधीः । जिन्व । उत्तमेन । तनूभिः । तनूः । जिन्व । वयोधसा । अधीतेन । अधीतम् । जिन्व । अभिजिता । तेजसा । तेजः । जिन्व