अ॒यमु॒पर्य॒र्वाग्व॑सु॒स्तस्य॑ सेन॒जिच्च॑ सु॒षेण॑श्च सेनानीग्राम॒ण्यौ॒ । उ॒र्वशी॑ च पू॒र्वचि॑त्तिश्चाप्स॒रसा॑वब॒स्फूर्ज॑न् हे॒तिर्वि॒द्युत्प्रहे॑ति॒स्तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः
a̱yám u̱pary a̱rvā́g vásus tásya senajíc ca su̱ṣéṇaś ca senānīgrāma̱ṇyàu | urváśī ca pū̱rvácittiś cāpsa̱rásāv aba̱sphū́rjan hetír vidyút prahétis tébhyo námo astu té no avantu té no mṛḍayantu té yáṃ dvi̱ṣmáḥ yáś ca no dvéṣṭi tám eṣā́ṃ jámbhe dadhmaḥ
This Vasu, moving from above hitherward,—his two marshals, Senajit and Suṣeṇa, the leaders of the host and of the band; and Urvaśī and Pūrvacitti, the Apsarases; the crashing thunder, the missile, the lightning, the forward-hurled weapon,—to them be reverence! May they protect us; may they be gracious unto us! Whomsoever we hate, and whosoever hateth us, him we place within their jaws.
अ॒यम् । उ॒परि॑ । अ॒र्वाक् । वसु॑ः । तस्य॑ । सेन॒जित् । च॒ । सु॒षेण॑ः । च॒ । से॒ना॒नी॒ग्रा॒म॒ण्यौ॒ । उ॒र्वशी॑ । च॒ । पू॒र्वचि॑त्तिः । च॒ । अ॒प्स॒रसा॑ । अ॒व॒ब॒स्फूर्ज॑न् । हे॒तिः । वि॒द्युत् । प्र॒हे॒तिः । तेभ्यः॑ । नमः॑ । अ॒स्तु॒ । ते । नः॒ । अ॒व॒न्तु॒ । ते । नः॒ । मृ॒ड॒य॒न्तु॒ । ते । यम् । द्वि॒ष्मः । यः । च॒ । नः॒ । द्वेष्टि॑ । तम् । ए॒षाम् । जम्भे॑ । द॒ध्मः॒