श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णां म॑नी॒षाणां॒ प्रार्प॑ण॒: सोम॑गोपाः । वसु॑: सू॒नुः सह॑सो अ॒प्सु राजा॒ वि भा॒त्यग्र॑ उ॒षसा॑मिधा॒नः
śrī̱ṇā́m udā̱ró dharu̱ṇó rayī̱ṇā́ṃ manī̱ṣā́ṇāṃ prā̱rpáṇaḥ sómagopāḥ | vásuḥ sū̱núḥ sáhasa a̱psú rājā́ ví bhā̱ty ágre u̱ṣásām i̱dhānáḥ
Bounteous in splendours, the stay of riches, the forwarder of inspired thoughts, the guardian of Soma: the good one, the son of might, king in the waters—when kindled, he shineth forth in front, before the Dawns.
श्री॒णाम् । उ॒दा॒रः । ध॒रुणः॑ । र॒यी॒णाम् । म॒नी॒षाणाम् । प्र-अर्प॑णः । सोम॑-गोपाः । वसु॑ः । सू॒नुः । सह॑सः । अ॒प्सु । राजा॑ । वि । भा॒ति॒ । अग्रे॑ । उ॒षसा॑म् । इ॒धा॒नः