Sukta 8.25
ते हि ष्मा वनुषो नरोऽभिमातिं कयस्य चित् । तिग्मं न क्षोदः प्रतिघ्नन्ति भूर्णयः ॥
ते हि ष्मा॑ व॒नुषो॒ नरो॒ऽभिमा॑तिं॒ कय॑स्य चित् । ति॒ग्मं न क्षोद॑: प्रति॒घ्नन्ति॒ भूर्ण॑यः ॥
té hí ṣmā vanúṣo náro ’bhímātiṃ káyasya cit | tigmáṃ ná kṣódaḥ pratighnánti bhū́rṇayaḥ ||
For these are indeed the impelling heroes: they strike down any hostile assault whatsoever—like a sharp-pointed driving force shattering resistance—those whirlwinds of power that turn upon the obstruction and break it.
ते । हि । स्म॒ । व॒नुषः॑ । नरः॑ । अ॒भिऽमा॑तिम् । कय॑स्य । चि॒त् । ति॒ग्मम् । न । क्षोदः॑ । प्र॒ति॒ऽघ्नन्ति॑ । भूर्ण॑यः ॥ते । हि । स्म । वनुषः । नरः । अभिमातिम् । कयस्य । चित् । तिग्मम् । न । क्षोदः । प्रतिघ्नन्ति । भूर्णयः ॥te | hi | sma | vanuṣaḥ | naraḥ | abhi-mātim | kayasya | cit | tigmam | na | kṣodaḥ | prati-ghnanti | bhūrṇayaḥ