Sukta 1.36
पाहि नो अग्ने रक्षसः पाहि धूर्तेरराव्णः । पाहि रीषत उत वा जिघांसतो बृहद्भानो यविष्ठ्य ॥
पा॒हि नो॑ अग्ने र॒क्षस॑: पा॒हि धू॒र्तेररा॑व्णः । पा॒हि रीष॑त उ॒त वा॒ जिघां॑सतो॒ बृह॑द्भानो॒ यवि॑ष्ठ्य ॥
pā́hi no agne rákṣasaḥ pā́hi dhūrtér arā́vṇaḥ | pā́hi rī́ṣata utá vā́ jighā́ṃsato bṛ́hadbhāno yáviṣṭhya ||
Protect us, O Agni, from the devourers of the dark; protect us from the deceiver, the hostile will. Protect us from the one who injures and from the one who would slay—O wide-radiant, O youngest and ever-renewed flame.
पा॒हि । नः॒ । अ॒ग्ने॒ । र॒क्षसः॑ । पा॒हि । धू॒र्तेः । अरा॑व्णः । पा॒हि । रिष॑तः । उ॒त । वा॒ । जिघां॑सतः । बृह॑द्भानो॒ इति॑ बृह॑त्ऽभानो । यवि॑ष्ठ्य ॥पाहि । नः । अग्ने । रक्षसः । पाहि । धूर्तेः । अराव्णः । पाहि । रिषतः । उत । वा । जिघांसतः । बृहद्भानो इति बृहत्भानो । यविष्ठ्य ॥pāhi | naḥ | agne | rakṣasaḥ | pāhi | dhūrteḥ | arāvṇaḥ | pāhi | riṣataḥ | uta | vā | jighāṃsataḥ | bṛhadbhāno itibṛhat-bhāno | yaviṣṭhya