होता॑ यक्षद॒श्विनौ॒ सर॑स्वती॒मिन्द्र॑ᳪ सु॒त्रामा॑णमि॒मे सोमा॑: सु॒रामा॑ण॒श्छागै॒र्न मे॒षैरृ॑षभैः सु॒ताः शष्पै॒र्न तोक्म॑भिर्ला॒जैर्मह॑स्वन्तो॒ मदा॒ मास॑रेण॒ परि॑ष्कृताः शु॒क्राः पय॑स्वन्तो॒ऽमृता॒: प्रस्थि॑ता वो मधु॒श्चुत॒स्तान॒श्विना॒ सर॑स्व॒तीन्द्र॑: सु॒त्रामा॑ वृत्र॒हा जु॒षन्ता॑ᳪ सो॒म्यं मधु॒ पिब॑न्तु॒ व्यन्तु॒ होत॒र्यज॑
hótā yakṣad aśvínau sárasvatīm índraṃ sutrā́māṇam | imé sómāḥ surā́māṇaś chā́gair ná méṣair ṛṣabháiḥ sutā́ḥ śáṣpair ná tokmábhir lā́jair máhasvanto mádā māsaréṇa páriṣkṛtāḥ śukrā́ḥ páyasvanto ’mṛ́tāḥ prástitā vo mádhuścutas | tā́n aśvínā sárasvatī́ndraḥ sutrā́mā vṛtrahā́ juṣántāṃ sómyaṃ mádhu píbantu vyàntu hótar yaja
Let the Hotṛ offer to the Aśvins, to Sarasvatī, to Indra the good protector. These Soma-draughts, gladdening, pressed with (the aid of) the he-goats, with the rams, with the bulls; pressed with shoots, with grains, with parched barley—mighty, exhilarating, purified with the masara-mixture, bright, rich in milk, immortal, set forth for you, honey-dropping: may those (draughts) the Aśvins, Sarasvatī, and Indra the good protector, the Vṛtra-slayer, graciously accept; may they drink the Soma-honey; may they spread forth. O Hotṛ, offer!
होता । यक्षत् । अश्विनौ । सरस्वतीम् । इन्द्रम् । सुत्रामाणम् । इमे । सोमाः । सुरामाणः । छागैः । न । मेषैः । ऋषभैः । सुताः । शष्पैः । न । तोक्मभिः । लाजैः । महस्वन्तः । मदाः । मासरेण । परिष्कृताः । शुक्राः । पयस्वन्तः । अमृताः । प्रस्थिताः । वः । मधुश्चुतः । तान् । अश्विना । सरस्वती । इन्द्रः । सुत्रामा । वृत्रहा । जुषन्ताम् । सोम्यम् । मधु । पिबन्तु । व्यन्तु । होतः । यज ।