कस्त्वा॒ विमु॑ञ्चति॒ स त्वा॒ विमु॑ञ्चति॒ कस्मै॑ त्वा॒ विमु॑ञ्चति॒ तस्मै॑ त्वा॒ विमु॑ञ्चति । पोषा॑य॒ रक्ष॑सां भा॒गो॒ऽसि
kás tvā́ vimúñcati sá tvā́ vimúñcati kásmai tvā́ vimúñcati tásmai tvā́ vimúñcati | póṣāya rákṣasāṃ bhāgó ’si
Who is it that releaseth thee? He indeed releaseth thee. For whom releaseth he thee? For him indeed releaseth he thee. For prosperity thou art; thou art the portion of the Rakṣases.
कः । त्वा॒ । वि-मु॑ञ्चति । सः । त्वा॒ । वि-मु॑ञ्चति । कस्मै॑ । त्वा॒ । वि-मु॑ञ्चति । तस्मै॑ । त्वा॒ । वि-मु॑ञ्चति । पोषा॑य । रक्ष॑साम् । भा॒गः॒ । अ॒सि॒