नम॑: कप॒र्दिने॑ च॒ व्यु॒प्तकेशाय च॒ नम॑: सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒ नमो॑ गिरिश॒याय॑ च शिपिवि॒ष्टाय॑ च॒ नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च
námaḥ kapardíne ca vyùptakeśāya ca námaḥ sahasrā́kṣāya ca śatádhanvane ca námo giriśayā́ya ca śipiviṣṭā́ya ca námo mīḍhúṣṭamāya ceṣúmate ca
Homage to the braided-haired, and to him of loosened locks; homage to the thousand-eyed, and to him of the hundred bows; homage to the mountain-dweller, and to him that hath entered into splendour; homage to the most bountiful, and to him that is furnished with arrows.
नमः । कपर्दिने । च । व्युप्त-केशाय । च । नमः । सहस्र-अक्षाय । च । शत-धन्वने । च । नमः । गिरि-शयाय । च । शिपि-विश्टाय । च । नमः । मीढुष्टमाय । च । इषु-मतॆ । च