र॒श्मिना॑ स॒त्याय॑ स॒त्यं जि॑न्व॒ प्रेति॑ना॒ धर्म॑णा॒ धर्मं॑ जि॒न्वान्वि॑त्या दि॒वा दिवं॑ जिन्व स॒न्धिना॒ऽन्तरि॑क्षेणा॒न्तरि॑क्षं जिन्व प्रति॒धिना॑ पृथि॒व्या पृ॑थि॒वीं जि॑न्व विष्ट॒म्भेन॒ वृष्ट्या॒ वृष्टिं॑ जिन्व प्र॒वयाऽह्नाऽह॑र्जिन्वानु॒या रात्र्या॒ रात्रीं॑ जिन्वो॒शिजा॒ वसु॑भ्यो॒ वसू॑ञ्जिन्व प्रके॒तेना॑दि॒त्येभ्य॑ आदि॒त्याञ्जि॑न्व
raśmínā satyā́ya satyáṁ jinva prétiinā dhármaṇā dhármaṁ jinva | anvityā́ divā́ dívaṁ jinva sandhínā ’ntárikṣeṇāntárikṣaṁ jinva pratidhínā pṛthivyā́ pṛthivī́ṁ jinva | viṣṭámbhena vṛ́ṣṭyā vṛ́ṣṭiṁ jinva praváyā́hnā́háḥ jinva anuyā́ rā́tryā rā́trīṁ jinva | uśíjā vásubhyo vásūn jinva prakétenādityébhya ādityā́n jinva
With the rein, for truth, quicken thou truth; with forward impulse, with law, quicken thou law. With succession, with heaven, quicken thou heaven; with joint, with the mid-air, quicken thou the mid-air; with counter-joint, with the earth, quicken thou the earth. With support, with rain, quicken thou rain; with onward course, with day, quicken thou day; with following course, with night, quicken thou night. With eager striving, for the Vasus, quicken thou the Vasus; with clear discernment, for the Ādityas, quicken thou the Ādityas.
रश्मिना । सत्याय । सत्यम् । जिन्व । प्रेतिना । धर्मणा । धर्मम् । जिन्व । अन्वित्या । दिवा । दिवम् । जिन्व । सन्धिना । अन्तरिक्षेण । अन्तरिक्षम् । जिन्व । प्रतिधिना । पृथिव्या । पृथिवीम् । जिन्व । विष्टम्भेन । वृष्ट्या । वृष्टिम् । जिन्व । प्रवया । अह्ना । अहः । जिन्व । अनुया । रात्र्या । रात्रीम् । जिन्व । उशिजा । वसुभ्यः । वसून् । जिन्व । प्रकेतॆन । आदित्येभ्यः । आदित्यान् । जिन्व