Sukta 7.15
अग्ने रक्षा णो अंहसः प्रति ष्म देव रीषतः । तपिष्ठैरजरो दह ॥
अग्ने॒ रक्षा॑ णो॒ अंह॑स॒: प्रति॑ ष्म देव॒ रीष॑तः । तपि॑ष्ठैर॒जरो॑ दह ॥
agne rákṣā no áṃhasaḥ práti ṣma deva rī́ṣataḥ | tápiṣṭhair ajáro daha ||
O Agni, protect us from anguish and sin; stand firmly against the injurer, O god. With your most burning heats, deathless one, consume the hostile formations.
अग्ने॑ । रक्ष॑ । नः॒ । अंह॑सः । प्रति॑ । स्म॒ । दे॒व॒ । रिष॑तः । तपि॑ष्ठैः । अ॒जरः॑ । द॒ह॒ ॥अग्ने । रक्ष । नः । अंहसः । प्रति । स्म । देव । रिषतः । तपिष्ठैः । अजरः । दह ॥agne | rakṣa | naḥ | aṃhasaḥ | prati | sma | deva | riṣataḥ | tapiṣṭhaiḥ | ajaraḥ | daha