Sukta 1.58
अच्छिद्रा सूनो सहसो नो अद्य स्तोतृभ्यो मित्रमहः शर्म यच्छ । अग्ने गृणन्तमंहस उरुष्योर्जो नपात्पूर्भिरायसीभिः ॥
अच्छि॑द्रा सूनो सहसो नो अ॒द्य स्तो॒तृभ्यो॑ मित्रमह॒: शर्म॑ यच्छ । अग्ने॑ गृ॒णन्त॒मंह॑स उरु॒ष्योर्जो॑ नपात्पू॒र्भिराय॑सीभिः ॥
ácchidrā sū́no sahaso no adyá stotṛ́bhyo mitra-mahaḥ śárma yaccha | ágne gṛṇántaṃ áṃhasa uruṣya ūrjó napāt pū́rbhir ā́yasībhiḥ ||
O flawless one, Son of Force, today grant to us—to the singers—your wide peace, O great friend. O Agni, protect the chanter from distress; O Child of plenitude, fortify us with your iron ramparts.
अच्छि॑द्रा । सू॒नो॒ इति॑ । स॒ह॒सः॒ । नः॒ । अ॒द्य । स्तो॒तृऽभ्यः॑ । मि॒त्र॒ऽम॒हः॒ । शर्म॑ । य॒च्छ॒ । अग्ने॑ । गृ॒णन्त॑म् । अंह॑सः । उ॒रु॒ष्य॒ । ऊर्जः॑ । न॒पा॒त् । पूः॒ऽभिः । आय॑सीभिः ॥अच्छिद्रा । सूनो इति । सहसः । नः । अद्य । स्तोतृभ्यः । मित्रमहः । शर्म । यच्छ । अग्ने । गृणन्तम् । अंहसः । उरुष्य । ऊर्जः । नपात् । पूःभिः । आयसीभिः ॥acchidrā | sūno iti | sahasaḥ | naḥ | adya | stotṛ-bhyaḥ | mitra-mahaḥ | śarma | yaccha | agne | gṛṇantam | aṃhasaḥ | uruṣya | ūrjaḥ | napāt | pūḥ-bhiḥ | āyasībhiḥ