Amritnada
चतुर्भिः पश्यते देवान्पञ्चभिस्तुल्यविक्रमः । इच्छयाप्नोति कैवल्यं षष्ठे मासि न संशयः ॥३०॥
चतुर्भिः । पश्यते । देवान् । पञ्चभिः । तुल्य-विक्रमः । इच्छया । आप्नोति । कैवल्यम् । षष्ठे । मासि । न । संशयः ॥
caturbhiḥ paśyate devān pañcabhis tulyavikramaḥ | icchayāpnoti kaivalyaṃ ṣaṣṭhe māsi na saṃśayaḥ ||30||
ครบสี่เดือนย่อมเห็นเหล่าเทวะ ครบห้าเดือนย่อมมีกำลังทัดเทียมกัน เดือนที่หกย่อมบรรลุไกวัลยะด้วยเจตจำนงเพียงอย่างเดียว—ปราศจากความสงสัย॥๓๐॥
With four (months) he sees the gods; with five (months) he becomes of equal prowess (to them). By will he attains kaivalya in the sixth month—without doubt.