यु॒वं तमि॑न्द्रापर्वता पुरो॒युधा॒ यो न॑: पृत॒न्यादप॒ तं त॒मिद्ध॑तं॒ वज्रे॑ण॒ तं त॒मिद्ध॑तम् । दू॒रे च॒त्ताय॑ छन्त्स॒द्गह॑नं॒ यदिन॑क्षत् । अ॒स्माक॒ᳪ शत्रू॒न्परि॑ शूर वि॒श्वतो॑ द॒र्मा द॑र्षीष्ट वि॒श्वत॑: । भूर्भुव॒: स्व॒: सुप्र॒जाः प्र॒जाभि॑: स्याम सु॒वीरा॑ वीरैः सु॒पोषा॒: पोषै॑:
yuváṃ tám índrāparvatā puroyúdhā yó naḥ pṛtanyā́d ápa táṃ tám íd dhataṃ vájreṇa táṃ tám íd dhatam | dūré cattā́ya chantsád gahanaṃ yádi nákṣat | asmā́kaṃ śatrū́n pári śūra viśváto darmā́ darśīṣṭa viśvátaḥ | bhū́r bhuváḥ svàḥ suprájāḥ prajā́bhiḥ syāma suvī́rā vī́raiḥ supóṣāḥ póṣaiḥ
Ye twain, O Indra and Parvata, foremost in the fight,—whoso assaileth us in battle, smite ye him away, yea smite ye him, even him, with the thunderbolt, smite ye him, even him. Far be he cast; let him sink into the deep, if he would reach us. On every side, O hero, do thou encompass our foes; on every side vouchsafe us a sure abode. (And) with ‘Bhūr, Bhuvaḥ, Svaḥ’ may we be rich in offspring with our progeny, rich in heroes with heroes, rich in increase with increases.
युवम् । तम् । इन्द्रा-पर्वता । पुरः-युधा । यः । नः । पृतन्यात् । अप । तम् । तम् । इत् । धतम् । वज्रेण । तम् । तम् । इत् । धतम् । दूरे । चत्ताय । छन्त्सत् । गहनम् । यदि । नक्षत् । अस्माकम् । शत्रून् । परि । शूर । विश्वतः । दर्मा । दर्शीष्ट । विश्वतः । भूः । भुवः । स्वः । सु-प्रजाः । प्रजाभिः । स्याम । सु-वीराः । वीरैः । सु-पोषाः । पोषैः