दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आ द॑दे॒ नार्य॑सी॒दम॒हᳪ रक्ष॑सां ग्री॒वा अपि॑ कृन्तामि । बृ॒हन्न॑सि बृ॒हद्र॑वा बृह॒तीमिन्द्रा॑य॒ वाचं॑ वद ।
devásya tvā savitúḥ prasavé ’śvinor bāhúbhyāṃ pūṣṇó hástābhyām | ā dadé | ná aryasi | idám aháṃ rákṣasāṃ grīvā́ ápi kṛntāmi | bṛhán asi bṛhád-ravā | bṛhatī́m índrāya vā́caṃ vada |
At the impulsion of the god Savitṛ I take thee, with the arms of the Aśvins, with the hands of Pūṣan. Thou shalt not escape: herewith I cut asunder the necks of the Rākṣasas. Thou art great, of great sound: utter for Indra a lofty speech.
दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒वे । अ॒श्विनोः॑ । बा॒हुभ्यां॑ । पू॒ष्णः । हस्ता॑भ्याम् । आ । द॒दे॒ । न । अ॒र्य॒सि॒ । इ॒दम् । अ॒हम् । रक्ष॑साम् । ग्री॒वाः । अ॒पि॒ । कृ॒न्ता॒मि॒ । बृ॒हन् । अ॒सि॒ । बृ॒हद्र॑वा । बृ॒ह॒तीम् । इन्द्रा॑य । वाच॑म् । व॒द॒ ।