क॒व॒ष्यो न॒ व्यच॑स्वतीर॒श्विभ्यां॒ न दुरो॒ दिश॑: । इन्द्रो॒ न रोद॑सी उ॒भे दु॒हे का॒मान्त्सर॑स्वती
kavaṣyò ná vyácasvatīr aśvíbhyāṃ ná dúro díśaḥ | índro ná ródasī ubhé duhè kā́mān sárasvatī ||
ดุจสายน้ำที่แผ่กว้าง ดุจประตูสู่ทิศทั้งหลายเพื่ออัศวินทั้งคู่ ดุจอินทระผู้ค้ำจุนโลกทั้งสอง—สระสวตีทรงรีดหลั่งความปรารถนาและพรทั้งหลายออกมา
कवष्यः । न । व्यचस्वतीः । अश्विभ्याम् । न । दुरः । दिशः । इन्द्रः । न । रोदसी । उभे । दुहे । कामान् । सरस्वती