यदाकू॑तात्स॒मसु॑स्रोद्धृ॒दो वा॒ मन॑सो वा॒ सम्भृ॑तं॒ चक्षु॑षो वा । तदनु॒ प्रेत॑ सु॒कृता॑मु लो॒कं यत्र॒ ऋष॑यो ज॒ग्मुः प्र॑थम॒जाः पु॑रा॒णाः
yád ākū́tāt sám ásusrod dhṛdó vā mánaso vā sámbhṛtaṃ cákṣuṣo vā | tád ánu préta sukṛ́tāmu lokáṃ yátra ṛ́ṣayo jagmúḥ prathamajā́ḥ purāṇā́ḥ
สิ่งใดที่ไหลมารวมกันจากความตั้งใจ—ไม่ว่าจากหัวใจ จากจิต หรือถูกรวบรวมจากดวงตา—แล้วเธอจงไปสู่โลกของผู้กระทำความดี; ณ ที่นั้นเหล่าฤษีได้ไปแล้ว ผู้บังเกิดก่อน ผู้คนดึกดำบรรพ์.
यत् । आकूतात् । सम् । असुस्रुत् । हृदः । वा । मनसः । वा । सम्भृतम् । चक्षुषः । वा । तत् । अनु । प्रेत । सु-कृताम् । उ । लोकम् । यत्र । ऋषयः । जग्मुः । प्रथम-जाः । पुराणाः