बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हाऽमित्राँ॑२ अप॒बाध॑मानः । प्र॒भ॒ञ्जन्त्सेना॑: प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम्
bṛ́haspate pári dīyā́ rathéna rakṣohā́’mitrā́n apabā́dhamānaḥ | prabhañján sénāḥ pramṛṇó yudhā́ jáyan asmā́kam edhyavitā́ rathā́nām
O Bṛhaspati, drive round with thy chariot, slayer of the Rakṣas, thrusting away our foes; shattering the hosts, crushing them in battle, winning—be thou the prosperer of our chariots.
बृह॑स्पते । परि॑ । दी॒याः॒ । रथे॑न । रक्षः॒-हा । अ॒मित्रान् । अ॒प॒- बाध॑मानः । प्र॒-भ॒ञ्जन् । सेना॑ः । प्र॒- मृ॒णः॒ । यु॒धा । जय॑न् । अ॒स्माक॑म् । ए॒ध्य॒-वि॒ता । रथा॑नाम् ।