नव॑विᳪशत्याऽस्तुवत॒ वन॒स्पत॑योऽसृज्यन्त॒ सोमोऽधि॑पतिरासी॒देक॑त्रिᳪशताऽस्तुवत प्र॒जा अ॑सृज्यन्त॒ यवा॒श्चाय॑वा॒श्चाधि॑पतय आसँ॒त्रय॑स्त्रिᳪशताऽस्तुवत भू॒तान्य॑शाम्यन् प्र॒जाप॑तिः परमे॒ष्ठ्यधि॑पतिरासील्लो॒कं ता इन्द्र॑म्
návaviṁśatyā́stuvat vanaspátayo ’sṛjyanta sómo ’dhipatir āsīd ekatriṁśatā́stuvat prajā́ asṛjyanta yavā́ś cā́yavā́ś cā́dhipataya āsaṁs trayastriṁśatā́stuvat bhūtā́ny aśāmyaṁn prajā́patiḥ parameṣṭhī́ ’dhipatir āsīl lokáṁ tā́ índram
ด้วยบทสรรเสริญยี่สิบเก้า: เจ้าแห่งพงไพร (เหล่าวนสปติ—ไม้และพฤกษา) ถูกบังเกิด; โสมะเป็นเจ้าเหนือพวกมัน. ด้วยบทสรรเสริญสามสิบเอ็ด: สรรพชีวิตถูกบังเกิด; ธัญพืช (ยวะ) และสิ่งมิใช่ธัญพืช (อยวะ) เป็นเจ้าเหนือพวกมัน. ด้วยบทสรรเสริญสามสิบสาม: สรรพภาวะทั้งหลายสงบระงับ; ประชาปติผู้สูงสุด (Paramēṣṭhin) เป็นเจ้าเหนือพวกมัน.
नवविंशत्या । अस्तुवत । वनस्पतयः । असृज्यन्त । सोमः । अधि-पतिः । आसीत् । एकत्रिंशता । अस्तुवत । प्रजाः । असृज्यन्त । यवाः । च । अयवाः । च । अधि-पतयः । आसन् । त्रयस्त्रिंशता । अस्तुवत । भूतानि । अशाम्यन् । प्रजापतिः । परमेष्ठी । अधि-पतिः । आसीत् । लोकम् । ताः । इन्द्रम्