त्रीन्त्स॑मु॒द्रान्त्सम॑सृपत् स्व॒र्गान॒पां पति॑र्वृष॒भ इष्ट॑कानाम् । पुरी॑षं॒ वसा॑नः सुकृ॒तस्य॑ लो॒के तत्र॑ गच्छ॒ यत्र॒ पूर्वे॒ परे॑ताः
trīn samudrā́n sam asṛpat svargā́n apā́m patír vṛṣabhá iṣṭakānām | purī́ṣaṃ vásānaḥ sukṛtásya loké tátra gaccha yátra pū́rve párētāḥ
ท่านหลั่งไหลรวมกันข้ามมหาสมุทรทั้งสาม ไปสู่แดนสวรรค์—เจ้าแห่งน้ํา ผู้เป็นโคผู้แห่งอิฐแท่นบูชา. สวมไว้ซึ่งดินถม (purīṣa) ในโลกของผู้กระทํากุศล—ท่านจงไป ณ ที่นั้น ที่ซึ่งบรรพชนผู้ล่วงลับไปก่อนแล้วได้ไปถึง.
त्रीन् । समु॒द्रान् । सम् । असृपत् । स्व॒र्गान् । अ॒पाम् । पतिः । वृष॒भः । इष्ट॑कानाम् । पुरी॑षम् । वसा॑नः । सु॒कृ॒तस्य॑ । लो॒के । तत्र॑ । गच्छ । यत्र॑ । पूर्वे॑ । परे॑ताः