दी॒र्घायु॑स्त ओषधे खनि॒ता यस्मै॑ च त्वा॒ खना॑म्य॒हम् । अथो॒ त्वं दी॒र्घायु॑र्भू॒त्वा श॒तव॑ल्शा॒ विरो॑हतात्
dīrghā́yus te oṣadhe khanitā́ yásmai ca tvā khánāmy ahám | átho tvaṃ dīrghā́yur bhūtvā śatá-valśā vírohatāt
โอ้สมุนไพรเอ๋ย ขอให้ผู้ขุดท่านมีอายุยืน—ทั้งผู้นั้นผู้เพื่อเขาจึงขุด และข้าพเจ้าผู้ขุดท่าน. และขอให้ท่านเองเมื่อเป็นผู้มีอายุยืนแล้ว จงงอกงามขึ้นด้วยหน่อร้อยประการ.
दीर्घायुः । ते । ओषधे । खनिता । यस्मै । च । त्वा । खनामि । अहम् । अथो इति । त्वम् । दीर्घायुः । भूत्वा । शत-वल्शाः । वि-रोहतात् ।