Sukta 6.66
त्विषीमन्तो अध्वरस्येव दिद्युत्तृषुच्यवसो जुह्वो नाग्नेः । अर्चत्रयो धुनयो न वीरा भ्राजज्जन्मानो मरुतो अधृष्टाः ॥
त्विषी॑मन्तो अध्व॒रस्ये॑व दि॒द्युत्तृ॑षु॒च्यव॑सो जु॒ह्वो॒३॒॑ नाग्नेः । अ॒र्चत्र॑यो॒ धुन॑यो॒ न वी॒रा भ्राज॑ज्जन्मानो म॒रुतो॒ अधृ॑ष्टाः ॥
tvíṣīmantó adhvarásyeva didyút tṛ́ṣu-cyávasaḥ juhvò nā́gneḥ | arcatráyo dhúnayo ná vīrā́ bhrā́jaj-janmāno marúto adhṛ́ṣṭāḥ ||
เขาทั้งหลายเปี่ยมด้วยเดชอันลุกโพลง ดุจสายฟ้าแห่งพิธีบูชา; มรุททั้งหลายไม่หยุดนิ่งในความเคลื่อนไหวอันรวดเร็ว ประหนึ่งลิ้นเพลิงของอัคนี (Agni). เป็นผู้ขับขานบทสวด เขาทั้งหลายกึกก้องปั่นป่วนดุจวีรชน; กำเนิดในรัศมี มรุททั้งหลายย่อมไม่อาจพิชิตได้.
त्विषि॑ऽमन्तः । अ॒ध्व॒रस्य॑ऽइव । दि॒द्युत् । तृ॒षु॒ऽच्यव॑सः । जु॒ह्वः॑ । न । अ॒ग्नेः । अ॒र्चत्र॑यः । धुन॑यः । न । वी॒राः । भ्राज॑त्ऽजन्मानः । म॒रुतः॑ । अधृ॑ष्टाः ॥त्विषिमन्तः । अध्वरस्यइव । दिद्युत् । तृषुच्यवसः । जुह्वः । न । अग्नेः । अर्चत्रयः । धुनयः । न । वीराः । भ्राजत्जन्मानः । मरुतः । अधृष्टाः ॥tviṣi-mantaḥ | adhvarasya-iva | didyut | tṛṣu-cyavasaḥ | juhvaḥ | na | agneḥ | arcatrayaḥ | dhunayaḥ | na | vīrāḥ | bhrājat-janmānaḥ | marutaḥ | adhṛṣṭāḥ