Kalagnirudra
एवं त्रिपुण्ड्रविधिं भस्मना करोति यो विद्वान् ब्रह्मचारी गृही वानप्रस्थो यतिर्वा स महापातकोपपातकेभ्यः पूतो भवति स सर्वेषु तीर्थेषु स्नातो भवति स सर्वान् वेदानधीतो भवति स सर्वान् देवान् ज्ञातो भवति स सततं सकलरुद्रमन्त्रजापी भवति स सकलभोगान् भुङ्क्ते देहं त्यक्त्वा शिवसायुज्यमेति न स पुनरावर्तते न स पुनरावर्तत इत्याह भगवान् कालाग्निरुद्रः॥९॥
एवम् । त्रि-पुण्ड्र-विधिम् । भस्मना । करोति । यः । विद्वान् । ब्रह्मचारी । गृही । वानप्रस्थः । यतिः । वा । सः । महा-पातक-उपपातकेभ्यः । पूतः । भवति । सः । सर्वेषु । तीर्थेषु । स्नातः । भवति । सः । सर्वान् । वेदान् । अधीतः । भवति । सः । सर्वान् । देवान् । ज्ञातः । भवति । सः । सततम् । सकल-रुद्र-मन्त्र-जापी । भवति । सः । सकल-भोगान् । भुङ्क्ते । देहम् । त्यक्त्वा । शिव-सायुज्यम् । एति । न । सः । पुनः-आवर्तते । न । सः । पुनः-आवर्तते । इति । आह । भगवान् । कालाग्नि-रुद्रः ॥९॥
evaṃ tripuṇḍra-vidhiṃ bhasmanā karoti yo vidvān brahmacārī gṛhī vānaprastho yatir vā sa mahāpātakopapātakebhyaḥ pūto bhavati sa sarveṣu tīrtheṣu snāto bhavati sa sarvān vedān adhīto bhavati sa sarvān devān jñāto bhavati sa satataṃ sakala-rudra-mantra-jāpī bhavati sa sakala-bhogān bhuṅkte dehaṃ tyaktvā śiva-sāyujyam eti na sa punarāvartate na sa punarāvartata ity āha bhagavān kālāgnirudraḥ ||9||
ఇలా భస్మంతో త్రిపుండ్ర విధిని జ్ఞానిగా ఆచరించువాడు—బ్రహ్మచారి అయినా, గృహస్థుడైనా, వానప్రస్థుడైనా, యతియైనా—మహాపాతకాలు మరియు ఉపపాతకాల నుండి పవిత్రుడగును. అతడు సర్వ తీర్థాలలో స్నానం చేసినవాడివలె, సర్వ వేదాలు అధ్యయనం చేసినవాడివలె, సర్వ దేవతలను తెలిసినవాడివలె అవుతాడు. అతడు నిరంతరం సమస్త రుద్రమంత్రాలను జపించువాడగును; సమస్త భోగాలను అనుభవించును. దేహాన్ని విడిచి శివసాయుజ్యాన్ని పొందును; అతడు మరల తిరిగి రాడు, మరల తిరిగి రాడు—ఇట్లు భగవాన్ కాలాగ్నిరుద్రుడు పలికెను॥౯॥
Thus, whoever, being a knower, performs the rule of the tripuṇḍra with ash—whether a celibate student, a householder, a forest-dweller, or a renunciant—he becomes purified from great sins and subsidiary sins. He becomes as one who has bathed at all sacred fords; he becomes as one who has studied all the Vedas; he becomes as one who has known all the gods. He becomes one who constantly repeats all Rudra-mantras. He enjoys all experiences; having abandoned the body, he attains union (sāyujya) with Śiva. He does not return again; he does not return again—thus said the Blessed Kālāgnirudra.