Ekakshara
त्वं स्त्री पुमांस्त्वं च कुमार एकस्त्वं वै कुमारी ह्यथ भूस्त्वमेव । त्वमेव धाता वरुणश्च राजा त्वं वत्सरोऽग्न्यर्यम एव सर्वम् ॥११॥
त्वम् । स्त्री । पुमान् । त्वम् । च । कुमारः । एकः । त्वम् । वै । कुमारी । हि । अथ । भूः । त्वम् । एव । त्वम् । एव । धाता । वरुणः । च । राजा । त्वम् । वत्सरः । अग्नि-आर्यमः । एव । सर्वम् ।
tvaṃ strī pumāṃs tvaṃ ca kumāra ekas tvaṃ vai kumārī hy atha bhūs tvam eva | tvam eva dhātā varuṇaś ca rājā tvaṃ vatsaro 'gny aryama eva sarvam ||11||
నీవు స్త్రీవు, నీవు పురుషుడు, నీవే ఏకైక కుమారుడు. నీవే కన్య, మరల నీవే భూమి. నీవే ధాత (ధారకుడు), వరుణరాజు కూడా నీవే. నీవే సంవత్సరము, నీవే అగ్ని మరియు ఆర్యమ—నిజంగా సమస్తమూ నీవే॥११॥
You are woman; you are man; and you are the one youth. You indeed are the maiden; and then you are the earth—you alone. You alone are the Sustainer; and Varuṇa the king; you are the year; you are Agni and Aryaman—indeed, you are all.