Amritbindu
यतो निर्विषयस्यास्य मनसो मुक्तिरिष्यते । अतो निर्विषयं नित्यं मनः कार्यं मुमुक्षुणा ॥
निरस्तविषयासङ्गं संनिरुद्धं मनो हृदि । यदाऽऽयात्यात्मनो भावं तदा तत्परमं पदम् ॥३-४॥
यतः । निर्-विषयस्य । अस्य । मनसः । मुक्तिः । इष्यते । अतः । निर्-विषयम् । नित्यम् । मनः । कार्यम् । मुमुक्षुणा ।
निरस्त-विषय-आसङ्गम् । सं-निरुद्धम् । मनः । हृदि । यदा । आयाति । आत्मनः । भावम् । तदा । तत् । परम् । पदम् ॥
yato nirviṣayasyāsya manaso muktir iṣyate | ato nirviṣayaṃ nityaṃ manaḥ kāryaṃ mumukṣuṇā |
nirasta-viṣayāsaṅgaṃ saṃniruddhaṃ mano hṛdi | yadā''yāty ātmano bhāvaṃ tadā tat paramaṃ padam ||3-4||
ఈ మనస్సుకు ముక్తి విషయరాహిత్యంతోనే అని అంగీకరించబడినందున, ముముక్షువు ఎల్లప్పుడూ మనస్సును విషయరహితం చేయాలి. విషయాసంగాన్ని తొలగించి, హృదయంలో మనస్సును బాగా నియంత్రించినప్పుడు—అది ఆత్మభావాన్ని పొందితే, అదే పరమపదం.
Because liberation of this mind is held to be (through) objectlessness, therefore the seeker of liberation should always make the mind objectless. Having cast off attachment to objects, with the mind well-restrained in the heart—when it attains the state of the Self, then that is the supreme abode.