प्र तद्विष्णु॑ स्तवते वी॒र्ये॒ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः । यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑
prá tád viṣṇú stávate vīryèṇa mṛgó ná bhīmáḥ kucaró giriṣṭhā́ḥ | yásyorúṣu triṣú vikrámaṇeṣv adhikṣíyanti bhúvanāni víśvā
అందుచేత విష్ణువు తన వీర్యం (పరాక్రమం) వలన స్తుతింపబడతాడు—భయంకర మృగంలా సంచరించువాడు, పర్వతాలలో స్థితుడైయుండువాడు; ఎందుకంటే అతని మూడు విశాల విక్రమాలలో సమస్త భువనాలు నివసిస్తాయి.
प्र । तत् । विष्णुः॑ । स्त॒व॒ते । वी॒र्ये॑ण । मृ॒गः । न । भी॒मः । कु॒च॒रः । गि॒रि॒ष्ठाः । यस्य॑ । ऊ॒रुषु॑ । त्रि॒षु । वि॒क्रम॑णेषु । अ॒धि॒क्षि॒यन्ति॑ । भुव॑नानि । विश्वा॑