तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒: सम्भृ॑तं पृषदा॒ज्यम् । प॒शूँस्ताँश्च॑क्रे वाय॒व्या॒नार॒ण्या ग्रा॒म्याश्च॒ ये
tásmād yajñā́t sarvahútaḥ sámbhṛtaṃ pṛṣadā́jyam | paśū́ṃs tā́ṃś cakre vāyavyā́n āraṇyā́ grāmyā́ś ca yé
ఆ సర్వహుత యజ్ఞం నుండి పృషదాజ్యం (పృషద-ఆజ్యం) సమీకృతమైంది; మరియు ఆయన పశువులను సృష్టించాడు—వాయవ్య (ఆకాశచర) పశువులు, అరణ్య (అడవి) పశువులు, మరియు గ్రామ్య (గృహపాలిత) పశువులు.
तस्मात् । यज्ञात् । सर्वहुतः । सम्भृतम् । पृषत्-आज्यम् । पशून् । तान् । चक्रे । वायव्यान् । आरण्यान् । ग्राम्याः । च । ये