ए॒तावा॑नस्य महि॒मातो॒ ज्यायाँ॑श्च॒ पूरु॑षः । पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि
etā́vān asya mahimā́to jyā́yāṃś ca púruṣaḥ | pā́do ’sya víśvā bhūtā́ni tripā́d asyā́mṛtaṃ diví
ఆయన మహిమ ఇంతటి; దీనికన్నా మరింత మహత్తరుడు పురుషుడు. ఆయన యొక్క ఒక పాదం సమస్త భూతాలుగా ఉంది; ఆయన యొక్క మూడు పాదాలు దివిలో అమృతం—అమరత్వం—రూపంగా స్థితిచెందాయి.
एतावान् । अस्य । महिमा । अतः । ज्यायान् । च । पुरुषः । पादः । अस्य । विश्वा । भूतानि । त्रिपादः । अस्य । अमृतम् । दिवि