होता॑ यक्षद॒श्विनौ॒ छाग॑स्य व॒पाया॒ मेद॑सो जु॒षेता॑ᳪ ह॒विर्होत॒र्यज॑ । होता॑ यक्ष॒त्सर॑स्वतीं मे॒षस्य॑ व॒पाया॒ मेद॑सो जु॒षता॑ᳪ ह॒विर्होत॒र्यज॑ । होता॑ यक्ष॒दिन्द्र॑मृष॒भस्य॑ व॒पाया॒ मेद॑सो जु॒षता॑ᳪ ह॒विर्होत॒र्यज॑
hótā yakṣad aśvínau chā́gasya vapā́yā médaso juṣétāṃ havír hótar yaja | hótā yakṣat sárasvatīṃ méṣasya vapā́yā médaso juṣátāṃ havír hótar yaja | hótā yakṣad índram ṛṣabhásya vapā́yā médaso juṣátāṃ havír hótar yaja
హోతా యజించుగాక: అశ్వినౌ ఛాగపు వపా మరియు మేదస్సును స్వీకరించుగాక; హోతః, యజించు. హోతా యజించుగాక: సరస్వతి మేషపు వపా మరియు మేదస్సును స్వీకరించుగాక; హోతః, యజించు. హోతా యజించుగాక: ఇంద్రుడు ఋషభపు వపా మరియు మేదస్సును స్వీకరించుగాక; హోతః, యజించు.
होता । यक्षत् । अश्विनौ । छागस्य । वपायाः । मेदसः । जुषेताम् । हविः । होतः । यज । । होता । यक्षत् । सरस्वतीम् । मेषस्य । वपायाः । मेदसः । जुषताम् । हविः । होतः । यज । । होता । यक्षत् । इन्द्रम् । ऋषभस्य । वपायाः । मेदसः । जुषताम् । हविः । होतः । यज ।