स्तो॒काना॒मिन्दुं॒ प्रति॒ शूर॒ इन्द्रो॑ वृषा॒यमा॑णो वृष॒भस्तु॑रा॒षाट् । घृ॒त॒प्रुषा॒ मन॑सा॒ मोद॑माना॒: स्वाहा॑ दे॒वा अ॒मृता॑ मादयन्ताम्
stokā́nām índuṃ práti śū́ra índro vṛṣāyámāṇo vṛṣabhás turāṣā́ṭ | ghṛtá-pruṣā mánasā mód amānāḥ svā́hā devā́ amṛ́tā mādayantām
సోమ బిందువుల వైపు వీర ఇంద్రుడు—వృషభంలా, జయశాలి వృషభుడు—ముందుకు సాగుతాడు. ఘృత బిందువులతో సిక్తుడై, మనసులో ఆనందిస్తూ: స్వాహా! అమృత (అమర) దేవులు హర్షోల్లాసంతో మత్తిల్లుగాక.
स्तोकानाम् । इन्दुम् । प्रति । शूरः । इन्द्रः । वृषायमाणः । वृषभः । तुराषाट् । घृत-प्रुषाः । मनसा । मोदमानाḥ । स्वाहा । देवाः । अमृताः । मादयन्ताम्