आ॒त्मन्नु॒पस्थे॒ न वृक॑स्य॒ लोम॒ मुखे॒ श्मश्रू॑णि॒ न व्या॑घ्रलो॒म । केशा॒ न शी॒र्षन्यश॑से श्रियै॒ शिखा॑ सि॒ᳪहस्य॒ लोम॒ त्विषि॑रिन्द्रि॒याणि॑
ātmánn upásthe na vŕ̥kasya lóma múkhe śmaśrū́ṇi na vyā́ghralóma | kéśā na śīrṣány áśase śríyai śíkhā siṃhásya lóma tvíṣir indríyāṇi
ఆత్మ యొక్క ‘ఉపస్థ’ంలో వృక (తోడేలు) రోమాలవలె; ముఖమున ‘శ్మశ్రూ’ (గడ్డం) వ్యాఘ్ర రోమాలవలె. శిరస్సుపై కేశాలు యశస్సు, శ్రీ కోసం; ‘శిఖా’ సింహ రోమాలవలె—ఇవే తేజస్సు, ఇవే ఇంద్రియశక్తులు.
आत्मन् । उपस्थे । न । वृकस्य । लोम । मुखे । श्मश्रूणि । न । व्याघ्रलोम । केशाः । न । शीर्षनि । यशसे । श्रियै । शिखा । सिंहस्य । लोम । त्विषिः । इन्द्रियाणि