वस॑वस्त्वा धूपयन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद्रुद्रास्त्वा॑ धूपयन्तु त्रैष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वदादि॒त्यास्त्वा॑ धूपयन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद्विश्वे॑ त्वा दे॒वा वै॑श्वान॒रा धू॑पय॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वदिन्द्र॑स्त्वा धूपयतु॒ वरु॑णस्त्वा धूपयतु॒ विष्णु॑स्त्वा धूपयतु
vasavas tvā dhūpayantu gāyatreṇa chandasā’ṅgirasvat rudrās tvā dhūpayantu traiṣṭubhena chandasā’ṅgirasvat ādityās tvā dhūpayantu jāgatena chandasā’ṅgirasvat viśve tvā devā vaiśvānarā dhūpayantv anuṣṭubhena chandasā’ṅgirasvat indras tvā dhūpayatu varuṇas tvā dhūpayatu viṣṇus tvā dhūpayatu ||
వసువులు అంగిరసుల రీతిన గాయత్రీ ఛందస్సుతో నిన్ను ధూపింపజేయుగాక. రుద్రులు అంగిరసుల రీతిన త్రైష్టుభ ఛందస్సుతో నిన్ను ధూపింపజేయుగాక. ఆదిత్యులు అంగిరసుల రీతిన జాగతీ ఛందస్సుతో నిన్ను ధూపింపజేయుగాక. సమస్త దేవులు—వైశ్వానర గణం—అంగిరసుల రీతిన అనుష్టుభ ఛందస్సుతో నిన్ను ధూపింపజేయుగాక. ఇంద్రుడు నిన్ను ధూపింపుగాక; వరుణుడు నిన్ను ధూపింపుగాక; విష్ణువు నిన్ను ధూపింపుగాక.
वसवः । त्वा । धूपयन्तु । गायत्रेण । छन्दसा । अङ्गिरस्वत् । रुद्राः । त्वा । धूपयन्तु । त्रैष्टुभेन । छन्दसा । अङ्गिरस्वत् । आदित्याः । त्वा । धूपयन्तु । जागतेन । छन्दसा । अङ्गिरस्वत् । विश्वे । त्वा । देवाः । वैश्वानराः । धूपयन्तु । अनुष्टुभेन । छन्दसा । अङ्गिरस्वत् । इन्द्रः । त्वा । धूपयतु । वरुणः । त्वा । धूपयतु । विष्णुः । त्वा । धूपयतु