अ॒पां पृ॒ष्ठम॑सि॒ योनि॑र॒ग्नेः स॑मु॒द्रम॒भित॒: पिन्व॑मानम् । वर्ध॑मानो म॒हाँ२ आ च॒ पुष्क॑रे दि॒वो मात्र॑या वरि॒म्णा प्र॑थस्व
apā́ṃ pṛṣṭhám asi yónir agnéḥ samudrám abhítaḥ pinvámānam | várdhamāno mahā́n ā́ ca púṣkare divó mā́trayā varímṇā prathasva ||
నీవు జలాల పృష్ఠభాగము; అగ్నియొక్క యోని; చుట్టూరా ఉప్పొంగి విస్తరించు సముద్రము. మహత్తుగా వృద్ధి చెందుతూ, పుష్కర (కుంట/సరోవరం) లోనూ విస్తరించుము—దివ్య ప్రమాణమునుబట్టి, విస్తారపు వెడల్పుతో.
अपाम् । पृष्ठम् । असि । योनिः । अग्नेः । समुद्रम् । अभितः । पिन्वमानम् । वर्धमानः । महान् । आ । च । पुष्करे । दिवः । मात्रया । वरिम्णा । प्रथस्व ।