Sukta 1.117
युवं च्यवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः । युवो रथं दुहिता सूर्यस्य सह श्रिया नासत्यावृणीत ॥
यु॒वं च्यवा॑नमश्विना॒ जर॑न्तं॒ पुन॒र्युवा॑नं चक्रथु॒: शची॑भिः । यु॒वो रथं॑ दुहि॒ता सूर्य॑स्य स॒ह श्रि॒या ना॑सत्यावृणीत ॥
yuváṃ cyavā́nam aśvinā jarántaṃ púnar yúvānaṃ cakrathúḥ śácībhiḥ | yuvó ráthaṃ duhitā́ sū́ryasya sahá śríyā nāsatyāvṛṇīta ||
హే అశ్వినులారా! మీ ‘శచీ’ (ఫలప్రద శక్తులు) చేత వృద్ధుడైన చ్యవానుని మళ్లీ యువకుడిగా చేశారు. అలాగే సూర్యుని దుహిత, ‘శ్రీ’తో కూడి, మీ రథాన్ని ఎంచుకుంది—హే నాసత్యులారా! సంయోగ యాత్ర కోసం.
यु॒वम् । च्यवा॑नम् । अ॒श्वि॒ना॒ । जर॑न्तम् । पुनः॑ । युवा॑नम् । च॒क्र॒थुः॒ । शची॑भिः । यु॒वोः । रथ॑म् । दु॒हि॒ता । सूर्य॑स्य । स॒ह । श्रि॒या । ना॒स॒त्या॒ । अ॒वृ॒णी॒त॒ ॥युवम् । च्यवानम् । अश्विना । जरन्तम् । पुनः । युवानम् । चक्रथुः । शचीभिः । युवोः । रथम् । दुहिता । सूर्यस्य । सह । श्रिया । नासत्या । अवृणीत ॥yuvam | cyavānam | aśvinā | jarantam | punaḥ | yuvānam | cakrathuḥ | śacībhiḥ | yuvoḥ | ratham | duhitā | sūryasya | saha | śriyā | nāsatyā | avṛṇīta