प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वस्तस्य॑ ऋक्सा॒मान्य॑प्स॒रस॒ एष्ट॑यो॒ नाम॑ । स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्य॒: स्वाहा॑
prajā́patir viśvá-karmā mánō gandharvás tásya ṛk-sāmā́ny apsárasa eṣṭáyo nā́ma | sá na idáṁ bráhma kṣatráṁ pātu tásmai svā́hā vā́ṭ tā́bhyaḥ svā́hā
உலகத்தின் அதிபதியே, பிரஜாபதியே! யாரின் மேல் உன் இல்லங்கள் உள்ளனவோ, யாரின் உள்ளே (அவை) உள்ளனவோ—இந்தப் பிரஹ்மத்திற்கும் இந்தக் க்ஷத்ரத்திற்கும் மகத்தான அடைக்கலம் (ஷர்ம) அருள்வாயாக. ஸ்வாஹா!
प्र॒जाप॑तिः । वि॒श्व-क॑र्मा । मनः॑ । गन्ध॒र्वः । तस्य॑ । ऋक्-सा॒मानि॑ । अ॒प्स॒रसः॑ । एष्ट॑यः । नाम॑ । सः । नः॑ । इ॒दम् । ब्रह्म॑ । क्ष॒त्रम् । पा॒तु॒ । तस्मै॑ । स्वाहा॑ । वाट् । ताभ्यः॑ । स्वाहा॑