Sukta 6.51
उदु त्यच्चक्षुर्महि मित्रयोराँ एति प्रियं वरुणयोरदब्धम् । ऋतस्य शुचि दर्शतमनीकं रुक्मो न दिव उदिता व्यद्यौत् ॥
उदु॒ त्यच्चक्षु॒र्महि॑ मि॒त्रयो॒राँ एति॑ प्रि॒यं वरु॑णयो॒रद॑ब्धम् । ऋ॒तस्य॒ शुचि॑ दर्श॒तमनी॑कं रु॒क्मो न दि॒व उदि॑ता॒ व्य॑द्यौत् ॥
úd u tyác cákṣur máhi mitráyor ā́ṃ éti priyáṃ váruṇayor ádabdham | ṛtásya śúci darśatám anī́kaṃ rukmó na divá úd itā́ vy àdyaut ||
உயர்ந்து எழுகிறது அந்த மாபெரும் கண்—மித்ரனுக்குப் பிரியமானது, வருணனுக்குத் துரோகம் செய்ய இயலாதது; ருதத்தின் தூய, காணத்தக்க முகம். பொன்னொளி போல அது விண்ணிலிருந்து உயர்ந்து எங்கும் பிரகாசிக்கிறது—பொருள்களின் ருத-நியமத்தை உணரும் பார்வையை நம்முள் விழிப்பிக்கிறது.
उत् । ऊँ॒ इति॑ । त्यत् । चक्षुः॑ । महि॑ । मि॒त्रयोः॑ । आ । एति॑ । प्रि॒यम् । वरु॑णयोः । अद॑ब्धम् । ऋ॒तस्य॑ । शुचि॑ । द॒र्श॒तम् । अनी॑कम् । रु॒क्मः । न । दि॒वः । उत्ऽइ॑ता॑ । वि । अ॒द्यौ॒त् ॥उत् । ऊँ इति । त्यत् । चक्षुः । महि । मित्रयोः । आ । एति । प्रियम् । वरुणयोः । अदब्धम् । ऋतस्य । शुचि । दर्शतम् । अनीकम् । रुक्मः । न । दिवः । उत्इता । वि । अद्यौत् ॥ut | oṃ iti | tyat | cakṣuḥ | mahi | mitrayoḥ | ā | eti | priyam | varuṇayoḥ | adabdham | ṛtasya | śuci | darśatam | anīkam | rukmaḥ | na | divaḥ | ut-itā | vi | adyaut