Sukta 10.139
विश्वावसुं सोम गन्धर्वमापो ददृशुषीस्तदृतेना व्यायन् । तदन्ववैदिन्द्रो रारहाण आसां परि सूर्यस्य परिधीँरपश्यत् ॥
वि॒श्वाव॑सुं सोम गन्ध॒र्वमापो॑ ददृ॒शुषी॒स्तदृ॒तेना॒ व्या॑यन् । तद॒न्ववै॒दिन्द्रो॑ रारहा॒ण आ॑सां॒ परि॒ सूर्य॑स्य परि॒धीँर॑पश्यत् ॥
viśvā́vasuṃ soma gandharvám ā́po dadṛśúṣīs tád ṛténa vyā̀yan | tád ánvàvait índro rārāhāṇá āsā́m pári sū́ryasya paridhī́ṁr apaśyat ||
ஓ சோமா! ஆபஸ் (நீர்கள்) விஶ்வாவஸு—சோமத்தின் கந்தர்வன்—அவனை கண்டன; ṛta (ருத) விதிப்படி அவை ஓடி, தம் செயல்பாடுகளை விரித்தன. அதன் பின் அவற்றின் ஓட்டத்தில் மகிழ்ந்த இந்திரன் அதை அறிந்தான்; மேலும் சூரியனைச் சுற்றிய ஒளிமிகு பரிதிகள்—சுற்றுப்புற எல்லைகள்—அவனால் காணப்பட்டன.
वि॒श्वऽव॑सुम् । सो॒म॒ । ग॒न्ध॒र्वम् । आपः॑ । द॒दृ॒शुषीः॑ । तत् । ऋ॒तेन॑ । वि । आ॒य॒न् । तत् । अ॒नु॒ऽअवै॑त् । इन्द्रः॑ । र॒र॒हा॒णः । आ॒सा॒म् । परि॑ । सूर्य॑स्य । प॒रि॒ऽधीन् । अ॒प॒श्य॒त् ॥विश्ववसुम् । सोम । गन्धर्वम् । आपः । ददृशुषीः । तत् । ऋतेन । वि । आयन् । तत् । अनुअवैत् । इन्द्रः । ररहाणः । आसाम् । परि । सूर्यस्य । परिधीन् । अपश्यत् ॥viśva-vasum | soma | gandharvam | āpaḥ | dadṛśuṣīḥ | tat | ṛtena | vi | āyan | tat | anu-avait | indraḥ | rarahāṇaḥ | āsām | pari | sūryasya | pari-dhīn | apaśyat