Sukta 10.126
न तमंहो न दुरितं देवासो अष्ट मर्त्यम् । सजोषसो यमर्यमा मित्रो नयन्ति वरुणो अति द्विषः ॥
न तमंहो॒ न दु॑रि॒तं देवा॑सो अष्ट॒ मर्त्य॑म् । स॒जोष॑सो॒ यम॑र्य॒मा मि॒त्रो नय॑न्ति॒ वरु॑णो॒ अति॒ द्विष॑: ॥
ná tám aṃhó ná duritáṃ devāso aṣṭa mártyam | sajóṣaso yám aryamā́ mitró náyanti váruṇo áti dvíṣaḥ ||
ஒருமனத்துடன் இயங்கும் இந்த தேவர்கள்—அர்யமன், மித்ரன், வருணன்—யாரை வழிநடத்துகிறார்களோ, அந்த மானவனைத் துன்பமும் வளைந்த துரதிர்ஷ்டமும் அணுகாது; வருணன் அவனைப் பகைவர்களின் வலிமையைத் தாண்டச் செலுத்துகிறான்.
न । तम् । अंहः॑ । न । दुः॒ऽइ॒तम् । देवा॑सः । अष्ट॑ । मर्त्य॑म् । स॒ऽजोष॑सः । यम् । अ॒र्य॒मा । मि॒त्रः । नय॑न्ति । वरु॑णः । अति॑ । द्विषः॑ ॥न । तम् । अंहः । न । दुःइतम् । देवासः । अष्ट । मर्त्यम् । सजोषसः । यम् । अर्यमा । मित्रः । नयन्ति । वरुणः । अति । द्विषः ॥na | tam | aṃhaḥ | na | duḥ-itam | devāsaḥ | aṣṭa | martyam | sa-joṣasaḥ | yam | aryamā | mitraḥ | nayanti | varuṇaḥ | ati | dviṣaḥ