Sukta 10.104
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
śunáṃ huvema maghávānam índram asmín bháre nṛ́tamam vā́ja-sātau | śṛṇvántam ugrám ūtáye samátsu ghnántaṃ vṛtrā́ṇi saṃjítam dhánānām ||
எங்கள் நன்மைக்காக நாம் மகவான் இந்திரனை அழைப்போம்—இந்த பாரம் தாங்குதலில், வாஜஸாதி (செழிப்பு-வெற்றி) யில், ந்ருதம (மிகப் புருஷார்த்தமுடைய) அவரை. அவர் எங்களைச் செவிமடுத்து, சமத்ஸு (மோதல்களில்) உதவிக்காக உக்ரனாகி, வ்ருத்ராணி (தடைகள்) யை அழித்து—தனங்களின் ஸஞ்ஜித் (சேர்த்துக் குவிக்கும் வெற்றியாளர்) ஆவான்.
शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ । शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥शुनम् । हुवेम । मघवानम् । इन्द्रम् । अस्मिन् । भरे । नृतमम् । वाजसातौ । शृण्वन्तम् । उग्रम् । ऊतये । समत्सु । घ्नन्तम् । वृत्राणि । सम्जितम् । धनानाम् ॥śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām