Sukta 1.173
एष स्तोम इन्द्र तुभ्यमस्मे एतेन गातुं हरिवो विदो नः । आ नो ववृत्याः सुविताय देव विद्यामेषं वृजनं जीरदानुम् ॥
ए॒ष स्तोम॑ इन्द्र॒ तुभ्य॑म॒स्मे ए॒तेन॑ गा॒तुं ह॑रिवो विदो नः । आ नो॑ ववृत्याः सुवि॒ताय॑ देव वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
eṣá stóma indra túbhyam asmé eténa gātúṃ harivo vido naḥ | ā́ no vavṛtyāḥ suvitā́ya deva vidyā́meṣáṃ vṛjánaṃ jīrádānum ||
ஓ இந்திரா, இந்த ஸ்தோமம் எங்களிடையே உனக்கே உரியது; ஓ ஹரிவோ (பச்சை/மஞ்சள் குதிரைகளின் அதிபதி), இதனால் எங்களுக்கான பாதையை அறிந்தருள்வாய். ஓ தேவா, நல்வழிக்காக எங்களிடம் திரும்பிவா; இதனால் நாம் இந்தச் செயல்வீரியமுள்ள களத்தையும், விரைவாக வழங்கும் வளமையையும் அடைவோமாக.
ए॒षः । स्तोमः॑ । इ॒न्द्र॒ । तुभ्य॑म् । अ॒स्मे इति॑ । ए॒तेन॑ । गा॒तुम् । ह॒रि॒ऽवः॒ । वि॒दः॒ । नः॒ । आ । नः॒ । व॒वृ॒त्याः॒ । सु॒वि॒ताय॑ । दे॒व॒ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥एषः । स्तोमः । इन्द्र । तुभ्यम् । अस्मे इति । एतेन । गातुम् । हरिवः । विदः । नः । आ । नः । ववृत्याः । सुविताय । देव । विद्याम । इषम् । वृजनम् । जीरदानुम् ॥eṣaḥ | stomaḥ | indra | tubhyam | asme iti | etena | gātum | hari-vaḥ | vidaḥ | naḥ | ā | naḥ | vavṛtyāḥ | suvitāya | deva | vidyāma | iṣam | vṛjanam | jīra-dānum