Sukta 1.118
आ वां रथो अश्विना श्येनपत्वा सुमृळीकः स्ववाँ यात्वर्वाङ् । यो मर्त्यस्य मनसो जवीयान्त्रिवन्धुरो वृषणा वातरंहाः ॥
आ वां॒ रथो॑ अश्विना श्ये॒नप॑त्वा सुमृळी॒कः स्ववाँ॑ यात्व॒र्वाङ् । यो मर्त्य॑स्य॒ मन॑सो॒ जवी॑यान्त्रिवन्धु॒रो वृ॑षणा॒ वात॑रंहाः ॥
ā́ vāṁ rátho aśvinā śyēnápatvā sumṛḷīkáḥ svávāṁ yātv arvā́ṅ | yó mártyasya mánaso javī́yān trivandhuró vṛṣaṇā vā́taraṁhāḥ ||
அஶ்வினௌ! ஶ்யேனன் போல் பறக்கும் வேகத்துடன், சும்ரளீக—அருள்மிகு, ஸ்வவான்—சுயஒளியுடைய—உங்கள் ரதம் எங்களிடம், இங்கே, எங்கள் நோக்கி வருக. மனித மனத்தைவிட வேகமானது; திரிவந்துர—மூன்று ஆதாரமுடையது; வ்ருஷணௌ! வாத-ரம்ஹாஃ—காற்றின் விரைவால் உந்தப்பட்ட—அது இங்கே வந்து சேர்க.
आ । वा॒म् । रथः॑ । अ॒श्वि॒ना॒ । श्ये॒नऽप॑त्वा । सु॒ऽमृ॒ळी॒कः । स्वऽवा॑न् । या॒तु॒ । अ॒र्वाङ् । यः । मर्त्य॑स्य । मन॑सः । जवी॑यान् । त्रि॒ऽव॒न्धु॒रः । वृ॒ष॒णा॒ । वात॑ऽरंहाः ॥आ । वाम् । रथः । अश्विना । श्येनपत्वा । सुमृळीकः । स्ववान् । यातु । अर्वाङ् । यः । मर्त्यस्य । मनसः । जवीयान् । त्रिवन्धुरः । वृषणा । वातरंहाः ॥ā | vām | rathaḥ | aśvinā | śyena-patvā | su-mṛḷīkaḥ | sva-vān | yātu | arvāṅ | yaḥ | martyasya | manasaḥ | javīyān | tri-vandhuraḥ | vṛṣaṇā | vāta-raṃhāḥ