Brahmā’s Day, the Four Pralayas, and the Supreme Shelter Beyond Cause–Effect
अपां रसमथो तेजस्ता लीयन्तेऽथ नीरसा: । ग्रसते तेजसो रूपं वायुस्तद्रहितं तदा ॥ १५ ॥ लीयते चानिले तेजो वायो: खं ग्रसते गुणम् । स वै विशति खं राजंस्ततश्च नभसो गुणम् ॥ १६ ॥ शब्दं ग्रसति भूतादिर्नभस्तमनुलीयते । तैजसश्चेन्द्रियाण्यङ्ग देवान् वैकारिको गुणै: ॥ १७ ॥ महान् ग्रसत्यहङ्कारं गुणा: सत्त्वादयश्च तम् । ग्रसतेऽव्याकृतं राजन् गुणान् कालेन चोदितम् ॥ १८ ॥ न तस्य कालावयवै: परिणामादयो गुणा: । अनाद्यनन्तमव्यक्तं नित्यं कारणमव्ययम् ॥ १९ ॥
apāṁ rasam atho tejas tā līyante ’tha nīrasāḥ grasate tejaso rūpaṁ vāyus tad-rahitaṁ tadā
நெருப்பு நீரின் சுவையை ஈர்க்கிறது, சுவையற்ற நீர் நெருப்பில் கலக்கிறது. காற்று நெருப்பின் வடிவத்தை ஈர்க்கிறது, வடிவமற்ற நெருப்பு காற்றில் கலக்கிறது.