Yogatattva
एतेषां लक्षणं ब्रह्मन् वक्ष्ये शृणु समासतः । मातृकादियुतं मन्त्रं द्वादशाब्दं तु यो जपेत् ॥
क्रमेण लभते ज्ञानम् अणिमादिगुणान्वितम् । अल्पबुद्धिरिमं योगं सेवते साधकाधमः ॥
एतेषाम् । लक्षणम् । ब्रह्मन् । वक्ष्ये । शृणु । समासतः । मातृका-आदि-युतम् । मन्त्रम् । द्वादश-अब्दम् । तु । यः । जपेत् ।
क्रमेण । लभते । ज्ञानम् । अणिमा-आदि-गुण-अन्वितम् । अल्प-बुद्धिः । इमम् । योगम् । सेवते । साधक-अधमः ।
eteṣāṃ lakṣaṇaṃ brahman vakṣye śṛṇu samāsataḥ | mātṛkādiyutaṃ mantraṃ dvādaśābdaṃ tu yo japet ||
krameṇa labhate jñānam aṇimādiguṇānvitam | alpabuddhir imaṃ yogaṃ sevate sādhakādhamaḥ ||
एतेषां लक्षणं, हे ब्रह्मन्, समासतो वक्ष्ये—शृणु। मातृकादियुतं द्वादशाक्षरं मन्त्रं यो जपेत्, स क्रमशो ज्ञानं लभते, अणिमादिगुणान्वितम्। अल्पबुद्धिरयं योगं सेवते; स साधकाधमः॥
I shall state, O Brahmin, their characteristics—listen briefly. Whoever repeats a twelve-syllabled mantra endowed with the mātṛkā (letters) and so forth, gradually attains knowledge accompanied by qualities beginning with aṇimā (minuteness). A person of little understanding practices this yoga; (he is) the lowest among practitioners.