Previous Verse
Next Verse

Verse 4

Yagyavalkya

अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं—यज्ञोपवीती कथं ब्राह्मण इति । स होवाच याज्ञवल्क्यः—इदं प्रणवमेवास्य तद्यज्ञोपवीतं य आत्मा । प्राश्याचम्यायं विधिः ॥४॥

अथ । ह । एनम् । अत्रिः । पप्रच्छ । याज्ञवल्क्यम् । यज्ञोपवीती । कथम् । ब्राह्मणः । इति । सः । ह । उवाच । याज्ञवल्क्यः । इदम् । प्रणवम् । एव । अस्य । तत् । यज्ञोपवीतम् । यः । आत्मा । प्राश्य । आचम्य । अयम् । विधिः ।

atha hainam atriḥ papraccha yājñavalkyaṃ—yajñopavītī kathaṃ brāhmaṇa iti | sa hovāca yājñavalkyaḥ—idaṃ praṇavam evāsya tad yajñopavītaṃ ya ātmā | prāśyācamyāyaṃ vidhiḥ ||4||

अथात्रिर्याज्ञवल्क्यं पप्रच्छ—“यज्ञोपवीती कथं ब्राह्मणः?” इति। स याज्ञवल्क्य उवाच—“अस्य तु प्रणव एव यज्ञोपवीतं, य आत्मा। भुक्त्वा आचम्य, एष एव विधिः।”॥४॥

Then Atri asked him, Yājñavalkya: “How is a brāhmaṇa one who wears the sacred thread?” Yājñavalkya replied: “For him, this Praṇava (Oṃ) alone is that sacred thread—namely, the Self. Having eaten and having sipped water (ācamana), this is the rule.”

Ātman as the true yajñopavīta; Praṇava (Oṃ) as Brahman-symbol; internalization of ritualMahavakya: Indirect: supports mahāvākya purport by identifying the Self as the essential ‘mark’ of brahminhood; aligns with ‘ayam ātmā brahma’ (conceptually) rather than quoting a mahāvākya verbatim.YajurŚukla (Vājasaneyī) ShakhaChandas: Prose